(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

महाभारत का अरयण्क पर्व – Mahabharat Aranyak Parv in Hindi


॥ श्रीः ॥
3.186. अध्यायः 186
Mahabharata - Vana Parva - Chapter Topics
मार्कण्डेयेन युधिष्ठिरादीन्प्रति प्राणिनां सुकृतदुष्कृतफलभोगादिप्रकारनिरूपणम् ॥ 1 ॥
Mahabharata - Vana Parva - Chapter Text

वैशम्पायन उवाच। 3-186-0x(2367)(23074)
तं विवक्षन्तमालक्ष्यकुरुराजो महामुनिम्।
कथासंजननार्थाय चोदयामास पाण्डवः ॥ 3-186-1(23075)
भवान्दैवतदैत्यानामृषीणां च महात्मनाम्।
राजर्षीणां च सर्वेषां चरितज्ञः पुरातनः ॥ 3-186-2(23076)
सेव्यश्चोपासितव्यश् मतो नः काङ्क्षितश्चिरम्।
अयं च देवकीपुत्रः प्राप्तोऽस्मानवलोककः ॥ 3-186-3(23077)
भ्रमत्येव हि मे बुद्धिर्दृष्ट्वाऽऽत्मानं सुखाच्च्युतम्।
धार्तराष्ट्रांश्च रदुर्त्तानृद्ध्यतः प्रेक्ष्य सर्वशः ॥ 3-186-4(23078)
कर्मणः पुरुषः कर्ता शुभस्याप्यशुभस्य वा।
स्वफलं तदुपाश्नापि कथं कर्ता स्विदीश्वरः ॥ 3-186-5(23079)
अथवा सुखदुःखेषु नृणां ब्रह्मविदांवर।
इह वा कृतमन्वेति परदेहेऽथवा पुनः ॥ 3-186-6(23080)
देही च देहं संत्यज्य मृग्यमाणः शुभाशुभैः।
कथं संयुज्यतेप्रेत्य इह वा द्विजसत्तम ॥ 3-186-7(23081)
ऐहलौकिकमेवैतदुताहो पारलौकिकम्।
क्व वा कर्माणि तिष्ठन्ति जन्तोः प्रेतस्य भार्गव ॥ 3-186-8(23082)
मार्कण्डेय उवाच। 3-186-9x(2368)
त्वद्युक्तोऽयमनुप्रश्नो यथावद्वदतांवर।
विदितं वेदितव्यं ते स्थित्यर्थं त्वं तु पृच्छसि ॥ 3-186-9(23083)
अत्र ते कथयिष्यामि तदिहैकमनाः शृणु।
यथेहामुत्र च नर सुखदुःखमुपाश्नुते ॥ 3-186-10(23084)
निर्मलानि शरीराणि विशुद्धानि शरीरिणाम्।
ससर्ज धऱ्मतन्त्राणि पूर्वोत्पन्नः प्रजापतिः ॥ 3-186-11(23085)
अमोघफलसंकल्पाः सुव्रताः सत्यवादिनः।
ब्रह्मभूता नराः पुण्याः पुराणाः कुरुसत्तम ॥ 3-186-12(23086)
सर्वे देवैः समायान्ति स्वच्छन्देन नभस्तलम्।
ततश्च पुनरायान्ति सर्वे स्वच्छन्दचारिणः ॥ 3-186-13(23087)
स्वच्चन्दमरणाश्चासन्नराः स्वच्छन्दजीविनः।
अल्पबाधा निरातङ्काः सिद्धार्था निरुपद्रवाः ॥ 3-186-14(23088)
द्रष्टारोदेवसङ्घानामृषीणां च महात्मनाम्।
प्रत्यक्षाः सर्वधर्माणां दान्ता विगतमत्सराः ॥ 3-186-15(23089)
आसन्वर्षसहस्राणि तथा पुत्रसहस्रिणः।
ततः कालान्तरे तस्मिन्पृथिवीतलचारिणः ॥ 3-186-16(23090)
कामक्रोधाभिभूतास्ते मायाव्याजोपजीविनः।
लोभमोहाभिभूताश्च त्यक्ता देवैस्ततो नराः ॥ 3-186-17(23091)
अशुभैः कर्मभिः पापास्तिर्यङ्गिरयगामिनः।
संसारेषु विचित्रेषु पच्यमानाः पुनः पुनः ॥ 3-186-18(23092)
मोघेष्टा मोघसंकल्पा मोघज्ञाना विचेतसः।
`काङ्क्षिणः सर्वकामानां नास्तिका भिन्नसेतवः' ॥ 3-186-19(23093)
सर्वाभिशङ्खिनश्चैव संवृत्ताः क्लेदायिनः।
अशुभैः कर्मभिश्चापि प्रायशः परिचिह्निताः ॥ 3-186-20(23094)
दौष्कुल्या व्याधिबहुला दुरात्मानोऽभितापिनः।
भवन्त्यल्पायुषः पापा रौद्रकर्मफलोदयाः।
नाथन्तः सर्वकामानां नास्तिका भिन्नचेतसः ॥ 3-186-21(23095)
जन्तोः प्रेतस्य कौन्तेय गतिः स्वैरिह कर्मभिः।
प्राज्ञस्य हीनबुद्धेश्च कर्मकोशः क्व तिष्ठति ॥ 3-186-22(23096)
क्वस्थस्तत्समुपाश्नाति सुकृतं यदि वेतरत्।
इति ते दर्शनं यच्च तत्राप्यनुनयं शृणु ॥ 3-186-23(23097)
अयमादिशरीरेण देवसृष्टेन मानवः।
शुभानामशुभानां च कुरुते संचयं महत् ॥ 3-186-24(23098)
आयुषोऽन्ते प्रहायेदं क्षीणप्रायं कलेबरम्।
संभवत्येव युगपद्योनौ नास्त्यन्तराऽभवः ॥ 3-186-25(23099)
तत्रास्य स्वकृतं कर्म च्छायेवानुगतं सदा।
फलत्यथ सुखार्हो वा दुःखार्होवाऽथ जायते ॥ 3-186-26(23100)
कृतान्तविधिसंयुक्तः स जन्तुर्लक्षणैः शुभैः।
अशुभैर्वा निरादानो लक्ष्यते ज्ञानदृष्टिभिः ॥ 3-186-27(23101)
एषा तावदबुद्धीनां गतिरुक्ता युधिष्ठिर।
अतः परं ज्ञानवतां निबोध गतिमुत्तमाम् ॥ 3-186-28(23102)
मनुष्यास्तप्ततपसः सर्वागमपरायणाः।
स्थिरव्रताः सत्यपरा गुरुशुश्रूषणे रताः ॥ 3-186-29(23103)
सुशीलाः शुक्लजातीयाः क्षान्ता दान्ताः सुतेजसः।
शुचियोन्यन्तरगताः प्रायशः शुभलक्षणाः ॥ 3-186-30(23104)
जितेनद्रियत्वाद्वशिनः सत्कृत्यान्मन्दरागिणः।
अल्पाबाधपरित्रासा भवन्ति निरुपद्रवाः ॥ 3-186-31(23105)
च्यवन्तं जायमानं च गर्भस्यं चैव सर्वशः।
स्वमात्मानं परं चैव बुध्यन्ते ज्ञानचक्षुषः ॥ 3-186-32(23106)
ऋषयस्ते महात्मानः प्रत्यक्षागमबुद्धयः।
कर्मभूमिमिमां प्राप्य पुनर्यान्ति सुरालयम्।
`कृत्वा शुभानि कर्माणि ज्ञानेन भरतर्षभ' ॥ 3-186-33(23107)
किंचिद्दैवाद्धठात्किंचित्किंचिदेव स्वकर्मभिः।
प्राप्नुवन्ति नरा राजन्मा तेऽस्त्वन्याविचारणा ॥ 3-186-34(23108)
इमामत्रोपमां चापि निबोध वदतांवर।
मनुष्यलोके यच्छ्रेयः परंमन्ये युधिष्ठिर ॥ 3-186-35(23109)
इहैवैकस्य नामुत्र अमुत्रैकस्य नो इह।
इह चामुत्र चैकस् नामुत्रैकस्य नो इह ॥ 3-186-36(23110)
धनानि येषां विपुलानि सन्ति
नित्यंरमन्ते सुविभूषिताङ्गाः।
तेषामयं शत्रुवरघ्नलोको
नासौ सदा ग्राम्यसुखे रतानाम् ॥ 3-186-37(23111)
ये योगयुक्तास्तपसि प्रसक्ताः
स्वाध्यायशीला जरयन्ति देहान्।
जितेन्द्रिया भूतहिते निविष्टा
स्तेषामसौ नायमरिघ्नलोकः ॥ 3-186-38(23112)
ये धर्ममेव प्रथमं चरन्ति
धर्मेण लब्ध्वा च धनानि काले।
दारानवाप्य क्रतुभिर्यजन्ते
तेषामयं चैव परश्च लोकः ॥ 3-186-39(23113)
ये नैव विद्यां न तपो न दानं
न चापि मूढाः प्रजने यतन्ते।
न चापिगच्छन्ति शुभान्यभाग्या-
स्तेषामयं चैव परश्च नास्ति ॥ 3-186-40(23114)
सर्वे भवन्तस्त्वतिवीर्यसत्वा
दिव्यौजसः संहननोपपन्नाः।
लोकादमुष्मादवनिं प्रपन्नाः
स्वधीतविद्याः सुरकार्यहेतोः ॥ 3-186-41(23115)
कृत्वैव कर्माणइ महान्ति शूरा-
स्तपोदमाचारविहारशीलाः।
देवानृषीन्प्रेतगतांसच् सर्वा-
न्संतर्पयित्वा विधिना परेण ॥ 3-186-42(23116)
स्वर्गं परं पुण्यकृतां निवासं
क्रमेण संप्राप्स्यथ कर्मभिः स्वैः।
माभूद्विशङ्का तव कौरवेन्द्र
दृष्ट्वाऽऽत्मनः क्लेशमिमं सुखार्थम् ॥ 3-186-43(23117)

इति श्रीमन्महाभारते अरण्यपर्वणि मार्कण्डेयसमास्यापर्वणि षडशीत्यधिकशततमोऽध्यायः ॥ 186 ॥

Mahabharata - Vana Parva - Chapter Footnotes
3-186-4 ऋष्यतः समृद्धियुतान् ॥ 3-186-9 स्थित्यर्थं लोकरक्षार्थम्। वेदितव्यं ते स्मृत्यर्थमनुपच्छसीति ध. पाठः ॥ 3-186-17 माया कूटकार्षापणादिः व्याजं दम्भः तदेवोपजीवन्ति नतु धर्मम्। ते मायाव्याजोपजीविनः ॥ 3-186-21 नाथन्तः प्रार्थयमानाः। कामानां कामान् ॥ 3-186-23 अनुनयं सिद्धान्तम् ॥ 3-186-24 शरीरेण मानवो विधिसंयुतः इति क. पाठः ॥ 3-186-38 जितेन्द्रियाः प्राणिवधे निवृत्ताः इति झ. पाठः ॥ 3-186-40 प्रजने पुत्रोत्पादने ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.